Monday, August 13, 2018

कारिकावलि: न्यायसिद्धान्तमुक्तावलि


न्यायसिद्धान्तमुक्तावली

चूडामणीकृतविधुर्वलयीकृतवासुकि:। 
भवो भवतु भव्याय लीलाताण्डवपण्डित:।। 1।। 
निजनिर्मितकारिकावलीमतिसङ्क्षिप्तचिरन्तनोक्तिभि:। 
विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवद:।। 2 ।। 
सद्रव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिका 
सत्सामान्यविशेषनित्यमिलिताऽभावप्रकर्षोज्ज्वला। 
विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली 
विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्।। 3 ।। 

नूतनजलधररुचये गोपवधूटीदुकूलचौराय। 
(तस्मै कृष्णाय नम: संसारमहीरुहस्य बीजाय।।) 
तस्मै कृष्णाय नम: संसारमहीरुहस्य बीजाय।। 1 ।। 
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम्। 
समवायस्तथाऽभाव: पदार्था: सप्त कीर्तिता:।। 2 ।। 
क्षित्यप्तेजोमरुव्द्योमकालदिग्देहिनो मन:। 
द्रव्याणि अथ गुणा रूप रसा गन्धस्तत: परम् ।। 3 ।। 
।।इति गुणविभागग्रन्थ:।। 
स्पर्श: सङ्ख्या परिमिति: पृथक्त्वं च तत: परम्। 
संयोगश्च विभागश्च परत्वं चाऽपरत्वकम् ।।4।। 
बुद्धि: सुखं दु:खमिच्छा द्वेषो यत्नोे गुरुत्वकम्। 
द्रवत्वं स्नेह-संस्कारावदृष्टं शब्द एव च ।।5।। 
उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा। 
प्रसारणं च गमनं कर्माण्येतानि पञ्च च ।।6।। 
भ्रमणं रेचनं स्यन्दनोध्र्वज्वलनमेव च। 
तिय्र्यग्गमनमप्यत्र गमनादेव लभ्यते ।।7।।
सामान्यं द्विविधं प्रोक्तं परं चाऽपरमेव च। 
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते।।8।। 
परभिन्ना तु या जाति: सैवाऽपरतयोच्यते। 
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ।। 9 ।। 
व्यापकत्वात् पराऽपि स्याद् व्याप्यत्वादपराऽपि च। 
अन्त्यो नित्यद्रव्यवृत्तिर्विशेष: परिकीर्तित:।। 10 ।। 
घटादीनां कपालादौ द्रव्येषु गुणकर्मणो:। 
तेषु जातेश्च सम्बन्ध: समवाय: प्रकीर्तित:।।11।। 
अभावस्तु द्विधा संसर्गान्योन्याभावभेदत:। 
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ।। 12 ।। 
एवं त्रैविध्यमापन्न: संसर्गाभाव इष्यते। 
सप्तानामपि साधम्र्यं ज्ञेयत्वादिकमुच्यते ।। 13 ।। 
द्रव्यादय: पञ्च भावा अनेके समवायिन:। 
सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रिय: ।। 14 ।। 
इति गुणादिषट्पदार्थसाधम्र्यकथनम्।। 
सामान्यपरिहीनास्तु सर्वे जात्यादयो मता:। 
पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ।। 15 ।। 
।।इति पारिमाण्डल्यभिन्नपदार्थसाधम्र्यकथनम्।। 
अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता। 
कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ।। 16 ।। 
समवायिकारणत्वं ज्ञेयमथाऽप्यसमवायिहेतुत्वम्। 
एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ।। 17 ।। 
यत्समवेतं कार्यं भवति ज्ञेयं तु समवायिजनकं तत्। 
तत्राऽऽसन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ।। 18 ।। 
येन सह पूर्वभाव:, कारणमादाय वा यस्य। 
अन्यं प्रति पूर्वत्वे ज्ञाते यत्पूर्वभावविज्ञानम् ।। 19 ।। 
जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृह्यते। 
अतिरिक्तमथाऽपि यद्भवेन्नियतावश्यकपूर्वभाविन: ।। 20 ।। 
एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् । 
घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ।। 21 ।। 
तृतीयं तु भवेव्द्योम कुलालजनकोऽपर:। 
पञ्चमो रासभादि: स्यादेतेष्वावश्यकस्त्वसौ ।। 22 ।। 
समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम्। 
गुणकर्ममात्रवृत्ति ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ।। 23 ।। 
अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते। 
क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ।। 4 ।। 
क्षितिर्जलं तथा तेज: पवनो मन एव च। 
परापरत्वमूर्तत्व क्रियावेगाश्रया अमी ।। 25 ।। 
कालखात्मदिशां सर्वगतत्वं परमं महत्। 
क्षित्यादि पञ्च भूतानि चत्वारि स्पर्शवन्ति हि ।। 6 ।। 
द्रव्यारम्भश्चतुर्षु स्यादथाऽऽकाशशरीरिणाम्। 
अव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते ।। 27 ।। 
रूप-द्रवत्व-प्रत्यक्ष-योगिन: प्रथमास्त्रय:। 
गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रव:।। 28 ।। 
।। इति वैधम्र्यनिरूपणम्।। 
आत्मानो भूतवर्गाश्च विशेषगुणयोगिन:। 
यदुक्तं यस्य साधम्र्यं वैधम्र्यमितरस्य तत्।। 29 ।। 
स्पर्शादयोऽष्टौ वेगाख्य: संस्कारो मरुतो गुणा:। 
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणा: ।। 30।। 
स्पर्शादयोऽष्टौ वेगाश्च गुरुत्वं च द्रवत्वकम्। 
रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश।। 31।। 
स्नेहहीना गन्धयुता: क्षितावेते चतुर्दश। 
बुद्धवादिषट्कं सङ्ख्यादिपञ्चकं भावना तथा ।। 32 ।। 
धर्माधर्मौ गुणा एते आत्मन: स्युश्चतुर्दश। 
सङ्ख्यादिपञ्चकं कालदिशो: शब्दश्च ते च खे।। 33।। 
सङ्ख्यादिपञ्चकं बुद्धिरिच्छा यत्नोऽपि चेश्वरे। 
परापरत्वे सङ्ख्याद्या: पञ्च वेगश्च मानसे ।। 34 ।। 
तत्र क्षितिर्गन्धहेतु: नानारूपवती मता। 
षड्विधस्तु रसस्तत्र गन्धस्तु द्विविधो मत:।। 35।। 
स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकज:। 
नित्याऽनित्या च सा द्वेधा नित्या स्यादणुलक्षणा।। 36 ।। 
अनित्या तु तदन्या स्यात् सैवाऽवयवयोगिनी। 
अणुलक्षणा-परमाणुरूपा पृथिवी नित्या ।।36।। 
अनित्या तु तदन्या स्याद् सैवावयवयोगिनि
सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा।। 37।। 
योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम्। 
विषयो द्व्यणुकादिश्च ब्रह्माण्डान्त उदाहृत:।। 38।। 
वर्ण: शुक्लो रस-स्पर्शौ जले मधुर-शीतलौ। 
स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ।। 39।। 
नित्यतादि प्रथमवत्, किन्तु देहमयोनिजम्। 
इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मत: ।।40।।
ष्णस्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्करम् ।
नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत्।। 41।। 
इन्द्रियं नयनं वह्नि: स्वर्णादिर्विषयो मत:। 
अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मत: ।। 42।। 
तिर्यग्गमनवानेष ज्ञेय: स्पर्शादिलिङ्गक:। 
पूर्ववन्नित्यत्यताद्युक्तं देहव्यापि त्वगिन्द्रियम्।। 43।। 
प्राणादिस्तु महावायुपर्यन्तो विषयो मत:। 
आकाशस्य तु विज्ञेय: शब्दो वैशेषिको गुण:।। 44।। 
इन्द्रयन्तु भवेच्छोत्रमेक: सन्नप्युपाधित:। 
जन्यानां जनक: काल: जगतामाश्रयो मत:।। 45 ।। 
परापरत्वधीहेतु:, क्षणादि: स्यादुपाधिति:। 
दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते।। 46 ।। 
उपाधिभेदादेकाऽपि प्राच्यादिव्यपदेशभाक् 
आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ।।47।। 
शरीरस्य न चैतन्यं मृतेषु व्यभिचारत:। 
तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृति: ।। 48 ।। 
मनोऽपि न तथा, ज्ञानाद्यनध्यक्षं तदा भवेत्। 
धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगत:।।49।। 
प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथि:। 
अहङ्कारस्याऽऽश्रयोऽयं मनोमात्रस्य गोचर:।।50।। 
विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता।। 
अनुभूति: स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा।।51।। 
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे। 
घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम्।। 52।। 
घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृत:। 
तथा रसो रसज्ञाया: तथा शब्दोऽपि च श्रुते:।।53।। 
उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसङ्ख्ये 
विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ।।54।। 
क्रियां जातिं योग्यवृतिं्त समवायं च तादृशम्। 
गृह्णाति चक्षु:सम्बन्धादालोकोद्भूतरूपयो:।।55।। 
उद्भूतस्पर्शवत् द्रव्यं गोचर: सोऽपि च त्वच:। 
रूपान्यच्चक्षुषो योग्यं रूपमत्राऽपि कारणम्।।56।। 
ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते। 
महत्त्वं षड्विधे हेतु:, इद्रियं करणं मतम्।।58।। 
विषयेन्द्रियसम्बन्धो व्यापार: सोऽपि षड्विध:। 
द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायत:।।59।। 
द्रव्येषु समवेतानां तथा तत्समवायत:। 
तत्राऽपि समवेतानां शब्दस्य समवायत:।।60।। 
तद्वृत्तीनां समवेतसमवायेन तु ग्रह:। 
प्रत्यक्षं समवायस्य विशेषणतया भवेत्।। 61 ।। 
विशेषणतया तद्वदभावानां ग्रहो भवेत्। 
यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते।।62।। 
अलौकिकस्तु व्यापारस्त्रिविध: परिकीर्तित:। 
सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा।।63।। 
आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते। 
तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते।। 64।। 
विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षण:। 
योगजो द्विविध: प्रोक्तो युक्तयुञ्जानमेदत:।।65।। 
युक्तस्य सर्वदा भानं, चिन्तासहकृतोऽपर:। 
अथानुमानखण्ड
व्यापारस्तु परामर्श: करणं व्याप्तिधीर्भवेत्।। 66।। 
अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि। 
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा।।67।। 
व्याप्यस्य पक्षवृत्तित्वधी: परामर्श उच्यते।। 
व्याप्ति: साध्यवदन्यस्मिन्नसम्बन्ध उदाहृत:।।68।। 
अथवा हेतुमन्निष्ठविरहाप्रतियोगिना। 
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते।।69।। 
सिषाधयिषया शून्या सिद्धिर्यत्र न तिष्ठति। 
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्।।70।। 
अनैकान्तो विरुद्धश्चाऽप्यसिद्ध: प्रतिपक्षित:। 
कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा।।71।। 
।। इति हेत्वाभाससामान्यनिरूपणम् ।। 
आद्य: साधारणस्तु स्यादसाधारणकोऽपर:। 
तथैवाऽनुपसंहारी त्रिधाऽनैकान्तिको भवेत्।।72।। 
य: सपक्षे विपक्षे च भवेत्साधारणस्तु स:। 
यस्तूभयस्माद्वयावृत्त: सत्त्वसाधारणो मत:।।73।। 
तथैवाऽनुपसंहारी केवलान्वयिपक्षक:। 
य: साध्यवति नैवाऽस्ति स विरुद्ध उदाहृत:।।74।। 
आश्रयासिद्धिराद्या स्यात्, स्वरूपासिद्धिरप्यथ। 
व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा।।75।। 
पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरि:। 
ह्रदो द्रव्यं धूमवत्त्वादत्राऽसिद्धिरथाऽपरा।।76।। 
व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्। 
विरुद्धयो: परामर्शे हेत्वो: सत्प्रतिपक्षता।।77।। 
।। इति सत्प्रतिपक्षनिरूपणम्।। 
साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृत:। 
उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते।।78।। 
अथ उत्पमितिखण्डम्। 
ग्रामीणस्य प्रथमत: पश्यतो गवयादिकम्। 
सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम्।।79।। 
वाक्यार्थस्याऽतिदेशस्य स्मृतिव्र्यापार उच्यते। 
गवयादिपदानां तु शक्तिधीरुपमाफलम्।।80।। 
।।इति बाधमिरूपणम्।। 

शब्दखण्ड:[सम्पाद्यताम्]
पदज्ञानं करणं तु द्वारं तत्र पदार्थधी:।
शब्दबोध: फलं तत्र शक्तिधी: सहकारिणी।।81।।
लक्षणा शक्यसम्बन्ध: तात्पर्यानुपपत्तित:।
आसत्तिर्र्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते।82।।
कारणं सन्निधानं तु पदस्यासत्तिरुच्यते ।
पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता।।83।।
सह तात्पर्यग्रहे तु तेन सहाऽन्वयबोध: स्यादेव। ।।
 आकाङक्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम्।।84।।
साक्षात्कारे सुखादीनां करणं मन उच्यते।
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहोच्यते ।। 85।।
अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः ।
रूपं रस: स्पर्शगन्धौ परत्वमपरत्वकम्।।86।।
 द्रवो गुरुत्वं स्नेहश्च वेगो मूर्तगुणा अमी।
धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च।।87।।
एतेऽमूर्तगुणा: सर्वे विद्वद्भि: परिकीर्तिता:।
सङ्ख्यादयो विभागान्ता उभयेषां गुणा मता:।।88।।
संयोगश्च विभागश्च सङ्ख्या द्वित्वादिकास्तथा।
 द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणा:।।89।।
अत: शेषगुणा: सर्वे मता एकैकवृत्तय:।
बुद्ध्यादिषट्कं स्पर्शान्त: स्नेह: सांसिद्धिको द्रव:।।90।।
अदृष्टभावनाशब्दा अमी वैशेषिका गुणा:।
सङ्ख्यादिरत्वान्तो द्रवोऽसांसिद्धिकस्तथा।।91।।
गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिता:।
सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च।।92।।
द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दका:।
बाह्यैकैकेन्द्रियग्राह्या: गुरुत्वादृष्टभावना:।। 93।।
अतीन्द्रीया विभूनां तु ये स्युवैशेषिका गुणाः ।
अकारणगुणोत्पन्ना एते तु परिकीर्तिता:।।94।।
अपाकजास्तु स्पर्शन्ता द्रवत्वं च तथाविधम्।
स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम्।।95।।
 स्थितिस्थापक इत्येते स्यु: कारणगुणोद्भवा:।
संयोगश्च विभागश्च वेगश्चैते तु कर्मजा:।।96।।
स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके।
भवेदसमवायित्वं, अथ वैशेषिके गुणे।।97।। 
आत्मन: स्यान्निमित्तत्वं, उष्णास्पर्शगुरुत्वयो:।
वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा।।98।।
द्विधैव कारणत्वं स्यात्, अथ प्रादेशिको भवेत्।
वैशेषिको विभुगुण: संयोगादिद्वयं तथा।।99।।
चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।
चक्षुष: सहकारि स्यात्, शुक्लादिकमनेकधा।।100।।
जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम्।
रसस्तु रसनाग्राह्यो मधुरादिरनेकधा।।101।।
सहकारी रसज्ञाया नित्यतादि च पूर्ववत्।
 घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारक:।।102।।
सौरभं चाऽसौरभं च स द्वेधा परिकीर्तित:।
स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वच: स्यादुपकारक:।।103।।
 अनुष्णाशीतोशीताष्णभेदात् स त्रिविधो मत:।
 काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत्।।104।।
एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् ।
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ।। १०५
नैयायिकानां तु नये द्रव्यणुकादावपीष्यते
गणनाव्यवहारासाधारणं कारणं सङ्ख्येत्यर्थ:।।106।।
नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते।
द्वित्वादय: परार्धान्ता अपेक्षाबुद्धिजा मता:।।107।।
अनेकाश्रयपर्याप्ता एते तु परिकीर्तित:।
अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपित:।।108।।
अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते।
परिमाणं भवेन्मानव्यवहारस्य कारणम्।।109।।
अणु दीर्घं महद्ह्रस्वमिति तद्भेद ईरितः
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।110।।
 सङ्ख्यात: परिमाणाच्च प्रचयादपि जायते।
अनित्यं, द्व्यणुकादौ तु संख्याजन्यमुदाहृतम्।।111।।
परिमाणं घटादौ तु परिमाणजमुच्यते।
प्रचय: शिथिलाख्यो य: संयोगस्तेन जन्यते।।112।
परिणामं तूलकादौ नाशस्त्वाश्रयनाशतः
संख्यावत्तु पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम्।।113।।
 अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते।
 अस्मात् पृथगिदं नेति प्रतीतिर्हि विलक्षणा।।114।।
अप्राप्तयोस्तु या प्राप्ति: सैव संयोग ईरित:।
कीर्तितस्त्रिविघस्त्वेष आद्योऽन्यतरकर्मज:।।115।।
तथोभयस्पन्दजन्यो भवेत् संयोगजोऽपर:।
आदिम: श्येनशैलादिमंयोग: परिकीर्तित:।।116।।
मेषयो: सन्निपातो य: स द्वितीय उदाहृत:।
कपालतरुसंयोगात् संयोगस्तरुकुम्भयो:।।117।।
तृतीय: स्यात् कर्मजोऽपि द्विधैव परिकीर्तित:।
अभिघातो नोदनं च शब्दहेतुरिहादिम:।।118।।
शब्दाहेतुर्द्वितीय: स्यात् विभागोऽपि त्रिधा भवेत्।
एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपर:।।119।।
 विभागजस्तृतीय: स्यात् तृतीयोऽपि द्विधा भवेत्।
हेतुमात्रविभागोत्थोे हेत्वहेतुविभागज:।।120
परत्वं चाऽपरत्वं च द्विविधं परिकीर्तितम्।
दैशिकं कालिकं चाऽपि मूर्त एव तु दैशिकम्।।121।।
परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत्।
अपरत्वं तदल्पत्वबुद्धित: स्यादितीरितम्।।122।।
तयोरसमवायी तु दिक्संयोगस्तदाश्रये।
दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत्।।123।।
परत्वमपरत्वं तु तदीयाल्पत्वबुद्धित:।।
अत्र त्वसमवायी स्यात् संयोग: कालपिण्डयो:।।124।।
अपेक्षाबुद्धिनाशेन नाशस्तेवां निरूपित:।
बुद्धे: प्रपञ्च: प्रागेव प्रायशो विनिरूपित:।।125।।
 अथाऽवशिष्टोऽप्यपर: प्रकार: परिदश्र्यते।
 अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते।।126।।
तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता।
तत्प्रपञ्चो विपर्यास: संशयोऽपि प्रकीर्तित:।।127।।
 आद्यो देहेष्वात्मबुद्धि: शङ्खादौ पीततामति:।
 भवेन्निश्चयरूपा या संशयोऽथ प्रदश्र्यते।।128।।
 किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशय:।
तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चय:।।129।।
स संशयो मतिर्या स्यादेकत्राऽभावभावयो:।
साधारणादिधर्मस्य ज्ञानं संशयकारणम्।।130।।
 दोषोऽप्रमाया जनक: प्रमायास्तु गुणो भवेत्।
पित्तदूरत्वादिरूपो दोषो नानाविधो मत:।।131।।
प्रत्यक्षे तु विशेष्येण विशेषणवता समम्।
सन्निकर्षो गुणस्तु स्यात्, अथ त्वनुमितौ पुन:।।132।।
 पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत्।
शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुण:।।133।।
शाब्दबोधे योग्यतायास्तात्पर्यस्याऽथवा प्रमा।
गुण: स्यात्, भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा।।134।।
 अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्।
तत्प्रमा, न प्रमा नाऽपि भ्रम: स्यान्निर्विकल्पकम्।।135।।
प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत्।
प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तित:।।136।। इत्यन्यथाख्यातिवाद:।।
व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा।
हेतुव्र्याप्तिग्रहे, तर्क: क्वचिच्छङ्कानिवर्तक:।।137।।
साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा।
स उपाधिर्भवेत् तस्य निष्कर्षोऽयं प्रदश्र्यते।।138।।
सर्वे साध्यसमानाधिकरणा: स्युरुपाधय:।
हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता।।139।।
व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्।
शब्दोपमानयोर्नैव पृथक्प्रामाण्यमिष्यते।।140।।
अनुमानगतार्थत्वादिति वैशेषिकं मतम्।।
तन्न सम्यग्विना व्याप्तिबोधं शाब्दादिबोधत:।।141।।
इति शब्दोपमानयो: पृथक्प्रामाण्यनिरूपणम्।।
त्रैविध्यमनुमानस्य केवलान्वयिभेदत:।
द्वैविध्यं तु भवेद् व्याप्तेरन्वयव्यतिरेकत:।।142।।
इत्यनुमानत्रैविध्यनिरूपणम्।।
अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यतं।
साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत्।।143
अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते।
व्यतिरेकव्याप्तिबुद्धया चरितार्था हि सा यत:।।144।।
सुखं तु जगतामेव काम्यं धर्मेण जायते।
अधर्मजन्यं दु:खं स्यात् प्रतिकूलं सचेतसाम्।।145।।
निर्दु:खत्वे सुखे चेच्छा तज्ज्ञानादेव जायते।
इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि।।146।।
चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत्।
तद्धेतु: कृतिसाध्येष्टसाधनत्वमतिर्भवत्।।147।।
बलवद्द्विष्टहेतुत्वमति: स्यात्प्रतिबन्धिका।
तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते।।148।।
द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम्।
इति द्वेषनिरूपणम्।।
 प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम्।।149।।
एवं प्रयत्नत्रैविध्यं तान्त्रिकै: परिकीर्तितम्।
चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा।।150।।
 उपादानस्य चाऽध्यक्षं प्रवृत्तौ जनकं भवेत्।
 निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टोपायत्वधीयदि।।151
यत्नो जीवनयोनिस्तु सर्वदाऽतीन्द्रियो भवेत्।
शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्तितम्।।152।।
अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत्।
 अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्।।153।।
 तदेवाऽसमवायि स्यात् पतनाख्ये तु कर्मणि।
 सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथाऽपरम्।।154।।
सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसो:।
परमाणौ जले नित्यमन्यत्राऽनित्यमिष्यते।।155।।
 नैमित्तिकं वह्नियोगात् तपनीयघृतादिषु।
द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्ग्रहे तु तत्।156।।
 स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ।
तैलान्तरे तत्प्रकर्षाद् दहनस्याऽनुकूलता।।17।।
संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने।
 मूर्तमात्रे तु वेग: स्यात् कर्मजो वेगज: क्वचित्।।158।।
स्थितिस्थापकसंस्कार: क्षितौ केचिच्चतुष्र्वपि।
 अतीन्द्रियोऽसौ विज्ञेय: क्वचित् स्पन्देऽपि कारणम्।।159।।
भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रिय:।
उपेक्षानात्मकस्तस्य निश्चय: कारणं भवेत्।।160।।
 स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते।
।।इति संस्कारनिरूपणम्।।
 धर्माधर्मावदृष्टं स्याद्, धर्म: स्वर्गादिकारणम्।।161।।
 गङ्गास्नानादियागादिव्यापार: स तु कीर्तित:।
कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मत:।।162।।
 अधर्मो नरकादीनां हेतुर्निन्दितकर्मज:।
प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमौ गुणौ।।163।।
इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यत:।
शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनि:।।164।।
कण्ठसंयोगादिजन्या वर्णास्ते कादयो मता:
सर्व: शब्दो नभोवृत्ति: श्रोत्रोत्पन्नस्तु गृह्यते।।165।।
वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता।
कदम्बगोलकन्यायादुत्पत्ति: कस्यचिन्मते।।166।।
उत्पन्न: को विनष्ट: क इति बुद्धेरनित्यता।
सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते।।167।।
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात्।
तस्मादनित्या एवेति वर्णा: सर्वे मतं हि न:।।168।। इति श्रीविश्वनाथपञ्चाननकृता कारिकावली समाप्ता।

No comments:

Post a Comment